Monday, January 23, 2012

॥अगस्त्यकृतगणेशस्तोत्रम्॥

नमस्ते गणनाथाय सर्वविघ्नहराय च।
सर्वदा सुरसेव्याय सर्वाभीष्टप्रदाय च ॥
ब्रह्मरूपाय देवाय नमस्ते ब्रह्मचारिणे ।
प्रज्ञां विद्यां देहि मेध्यं(?)सर्वसंशयवर्जिताम्॥
पार्षदाय च विष्णोश्च विष्वक्सेनाय ते नमः।
नमस्ते विष्णुरूपाय चाष्टलक्ष्मीप्रदाय च॥
नमस्ते रुद्ररूपाय सर्वभूतगणाधिप।
सर्वपापविनाशाय पापं मे नाशय प्रभो॥
प्रणवाकारवक्त्राय भक्तवत्सल ते नमः।
प्रसीद परमेशाय पार्वतीनन्दन प्रभो॥
नमो मोदकहस्ताय नागयज्ञोपवीतिने।
नारायणप्रियायास्तु वारं वारं नमो नमः॥
नमस्ते शुक्लवर्णाय शुक्लाम्बरधराय च।
सुमुखाय नमस्तेऽस्तु सुन्दराङ्गाय ते नमः॥
नमो गणपते तुभ्यं नमस्ते ब्रह्मणस्पते।
सर्वसिद्धिकरोऽसि त्वं नमो मूषिकवाहन॥
विघ्नं कुरु सदा देव लोकेऽस्मिन् पापकर्मणाम्।
अविघ्नं कुरु विघ्नेश लोकेऽस्मिन् पुण्यकर्मणाम्॥
_+_+_+
एकदन्तं गजमुखं शूर्पकर्णं कृपानिधिम्।
लम्बोदरं पद्मपीठे निषण्णं मोदकप्रियम्॥
गौरीपुत्रं गणेशं तं प्रसन्नं ब्रह्मचारिणम्।
विष्णुप्रियं च वरदं सर्वदेवनमस्कृतम्॥
विनायकं नमस्कृत्य मुष्टीकृत्य करं तदा।
अपराधं क्षमस्वेते बाष्पपर्याकुलेक्षणः॥

No comments:

Post a Comment